शनिवार, 30 जनवरी 2016

गीतगोविन्दं ॥






 
॥ जयदेवकृत गीतगोविन्दं (अष्टपदी) ॥ 
॥ गीतगोविन्दं ॥
॥ श्रीगोपालकध्यानम् ॥
यद्गोपीवदनेन्दुमण्डनमभूत्कस्तूरिकापत्रकं
यल्लक्ष्मीकुचशातकुम्भकलशे व्यागोचमिन्दीवरम् ।
यन्निर्वाणविधानसाधनविधौ सिद्धाञ्जनं योगिनां
तन्नः श्यामळमाविरस्तु हृदये कृष्णाभिधानं महः ॥ १॥

॥ श्रीजयदेवध्यानम् ॥
राधामनोरमरमावररासलीला-
गानामृतैकभणितं कविराजराजम् ।
श्रीमाधवार्च्चनविधावनुरागसद्म-
पद्मावतीप्रियतमं प्रणतोऽस्मि नित्यम् ॥ २॥

श्रीगोपालविलासिनी वलयसद्रत्नादिमुग्धाकृति
श्रीराधापतिपादपद्मभजनानन्दाब्धिमग्नोऽनिशम् ॥

लोके सत्कविराजराज इति यः ख्यातो दयाम्भोनिधिः
तं वन्दे जयदेवसद्गुरुमहं पद्मावतीवल्लभम् ॥ ३॥


॥ प्रथमः सर्गः ॥
॥ सामोददामोदरः ॥
मेघैर्मेदुरमम्बरं वनभुवः श्यामास्तमालद्रुमै-
र्नक्तं भीरुरयं त्वमेव तदिमं राधे गृहं प्रापय ।
इत्थं नन्दनिदेशितश्चलितयोः प्रत्यध्वकुञ्जद्रुमं
राधामाधवयोर्जयन्ति यमुनाकूले रहःकेलयः ॥ १॥

वाग्देवताचरितचित्रितचित्तसद्मा
पद्मावतीचरणचारणचक्रवर्ती ।
श्रीवासुदेवरतिकेलिकथासमेत-
मेतं करोति जयदेवकविः प्रबन्धम् ॥ २॥

वाचः पल्लवयत्युमापतिधरः सन्दर्भशुद्धिं गिरां
जानीते जयदेव एव शरणः श्लाघ्यो दुरूहद्रुते ।
शृङ्गारोत्तरसत्प्रमेयरचनैराचार्यगोवर्धन-
स्पर्धी कोऽपि न विश्रुतः श्रुतिधरो धोयी कविक्ष्मापतिः ॥ ३॥

यदि हरिस्मरणे सरसं मनो
यदि विलासकलासु कुतूहलम् ।
मधुरकोमलकान्तपदावलीं
शृणु तदा जयदेवसरस्वतीम् ॥ ४॥

॥ गीतम् १ ॥
प्रलयपयोधिजले धृतवानसि वेदम् ।
विहितवहित्रचरित्रमखेदम् ॥

केशव धृतमीनशरीर जय जगदीश हरे ॥ १॥

क्षितिरतिविपुलतरे तव तिष्ठति पृष्ठे ।
धरणिधरणकिणचक्रगरिष्ठे ॥

केशव धृतकच्छपरूप जय जगदीश हरे ॥ २॥

वसति दशनशिखरे धरणी तव लग्ना ।
शशिनि कलङ्ककलेव निमग्ना ॥

केशव धृतसूकररूप जय जगदीश हरे ॥ ३॥

तव करकमलवरे नखमद्भुतशृङ्गम् ।
दलितहिरण्यकशिपुतनुभृङ्गम् ॥

केशव धृतनरहरिरूप जय जगदीश हरे ॥ ४॥

छलयसि विक्रमणे बलिमद्भुतवामन ।
पदनखनीरजनितजनपावन ॥

केशव धृतवामनरूप जय जगदीश हरे ॥ ५॥

क्षत्रियरुधिरमये जगदपगतपापम् ।
स्नपयसि पयसि शमितभवतापम् ॥

केशव धृतभृगुपतिरूप जय जगदीश हरे ॥ ६॥

वितरसि दिक्षु रणे दिक्पतिकमनीयम् ।
दशमुखमौलिबलिं रमणीयं ॥

केशव धृतरामशरीर जय जगदीश हरे ॥ ७॥

वहसि वपुषि विशदे वसनं जलदाभम् ।
हलहतिभीतिमिलितयमुनाभम् ॥

केशव धृतहलधररूप जय जगदीश हरे ॥ ८॥

निन्दति यज्ञविधेरहह श्रुतिजातम् ।
सदयहृदयदर्शितपशुघातम् ॥

केशव धृतबुद्धशरीर जय जगदीश हरे ॥ ९॥

म्लेच्छनिवहनिधने कलयसि करवालम् ।
धूमकेतुमिव किमपि करालम् ॥

केशव धृतकल्किशरीर जय जगदीश हरे ॥ १०॥

श्रीजयदेवकवेरिदमुदितमुदारम् ।
शृणु सुखदं शुभदं भवसारम् ॥

केशव धृतदशविधरूप जय जगदीश हरे ॥ ११॥

वेदानुद्धरते जगन्निवहते भूगोलमुद्बिभ्रते
दैत्यं दारयते बलिं छलयते क्षत्रक्षयं कुर्वते ।
पौलस्त्यं जयते हलं कलयते कारुण्यमातन्वते
म्लेच्छान्मूर्च्छयते दशाकृतिकृते कृष्णाय तुभ्यं नमः ॥ ५॥

॥ गीतम् २ ॥
श्रितकमलाकुचमण्डल धृतकुण्डल ए ।
कलितललितवनमाल जय जयदेव हरे ॥ १॥

दिनमणिमण्डलमण्डन भवखण्डन ए ।
मुनिजनमानसहंस जय जयदेव हरे ॥ २॥

कालियविषधरभञ्जन जनरञ्जन ए ।
यदुकुलनलिनदिनेश जय जयदेव हरे ॥ ३॥

मधुमुरनरकविनाशन गरुडासन ए ।
सुरकुलकेलिनिदान जय जयदेव हरे ॥ ४॥

अमलकमलदललोचन भवमोचन ए ।
त्रिभुवनभवननिधान जय जयदेव हरे ॥ ५॥

जनकसुताकृतभूषण जितदूषण ए ।
समरशमितदशकण्ठ जय जयदेव हरे ॥ ६॥

अभिनवजलधरसुन्दर धृतमन्दर ए ।
श्रीमुखचन्द्रचकोर जय जयदेव हरे ॥ ७॥

श्रीजयदेवकवेरिदं कुरुते मुदम् ए ।
मङ्गलमुज्ज्वलगीतं जय जयदेव हरे ॥ ८॥

पद्मापयोधरतटीपरिरम्भलग्न-
काश्मीरमुद्रितमुरो मधुसूदनस्य ।
व्यक्तानुरागमिव खेलदनङ्गखेद-
स्वेदाम्बुपूरमनुपूरयतु प्रियं वः ॥ ६॥

वसन्ते वासन्तीकुसुमसुकुमारैरवयवै-
र्भ्रमन्तीं कान्तारे बहुविहितकृष्णानुसरणाम् ।
अमन्दं कन्दर्पज्वरजनितचिन्ताकुलतया
वलद्बाधां राधां सरसमिदमुचे सहचरी ॥ ७॥

॥ गीतम् ३ ॥
ललितलवङ्गलतापरिशीलनकोमलमलयसमीरे ।
मधुकरनिकरकरम्बितकोकिलकूजितकुञ्जकुटीरे ॥

विहरति हरिरिह सरसवसन्ते
नृत्यति युवतिजनेन समं सखि विरहिजनस्य दुरन्ते ॥ १॥ विहरति
उन्मदमदनमनोरथपथिकवधूजनजनितविलापे  ।
अलिकुलसंकुलकुसुमसमूहनिराकुलबकुलकलापे   ॥ २॥ विहरति
मृगमदसौरभरभसवशंवदनवदलमालतमाले ।
युवजनहृदयविदारणमनसिजनखरुचिकिंशुकजाले ॥ ३॥ विहरति
मदनमहीपतिकनकदण्डरुचिकेसरकुसुमविकासे ।
मिलितशिलीमुखपाटलिपटलकृतस्मरतूणविलासे ॥ ४॥ विहरति
विगलितलज्जितजगदवलोकनतरुणकरुणकृतहासे  ।
विरहिनिकृन्तनकुन्तमुखाकृतिकेतकदन्तुरिताशे ॥ ५॥ विहरति
माधविकापरिमलललिते नवमालिकजातिसुगन्धौ ।
मुनिमनसामपि मोहनकारिणि तरुणाकारणबन्धौ ॥ ६॥ विहरति
स्फुरदतिमुक्तलतापरिरम्भणमुकुलितपुलकितचूते ।
बृन्दावनविपिने परिसरपरिगतयमुनाजलपूते ॥ ७॥ विहरति
श्रीजयदेवभणितमिदमुदयति हरिचरणस्मृतिसारम् ।
सरसवसन्तसमयवनवर्णनमनुगतमदनविकारम् ॥ ८॥ विहरति
दरविदलितमल्लीवल्लिचञ्चत्पराग-
प्रकटितपटवासैर्वासयन् काननानि ।
इह हि दहति चेतः केतकीगन्धबन्धुः
प्रसरदसमबाणप्राणवद्गन्धवाहः ॥ ८॥

उन्मीलन्मधुगन्धलुब्धमधुपव्याधूतचूताङ्कुर-
क्रीडत्कोकिलकाकलीकलरवैरुद्गीर्णकर्णज्वराः । var -  कलैः
नीयन्ते पथिकैः कथं कथमपि ध्यानावधानक्षण-
प्राप्तप्राणसमासमागमरसोल्लासैरमी वासराः ॥ ९॥

अनेकनारीपरिरम्भसम्भ्रम-
स्फुरन्मनोहारिविलासलालसम् ।
मुरारिमारादुपदर्शयन्त्यसौ
सखीसमक्षं पुनराह राधिकाम् ॥ १०॥

॥ गीतम् ४ ॥
चन्दनचर्चितनीलकलेवरपीतवसनवनमाली ।
केलिचलन्मणिकुण्डलमण्डितगण्डयुगस्मितशाली ॥

हरिरिहमुग्धवधूनिकरे
विलासिनि विलसति केलिपरे ॥ १॥

पीनपयोधरभारभरेण हरिं परिरम्य सरागम् ।
गोपवधूरनुगायति काचिदुदञ्चितपञ्चमरागम् ॥ २॥  हरिरिह
कापि विलासविलोलविलोचनखेलनजनितमनोजम् ।
ध्यायति मुग्धवधूरधिकं मधुसूदनवदनसरोजम् ॥ ३॥ हरिरिह
कापि कपोलतले मिलिता लपितुं किमपि श्रुतिमूले ।
चारु चुचुम्ब नितम्बवती दयितं पुलकैरनुकूले ॥ ४॥ हरिरिह
केलिकलाकुतुकेन च काचिदमुं यमुनाजलकूले ।
मञ्जुलवञ्जुलकुञ्जगतं विचकर्ष करेण द्कूले ॥ ५॥ हरिरिह
करतलतालतरलवलयावलिकलितकलस्वनवंशे ।
रासरसे सह नृत्यपरा हरिणा युवतिः प्रशशंसे ॥ ६॥ हरिरिह
श्लिष्यति कामपि चुम्बति कामपि कामपि रमयति रामाम् ।
पश्यति सस्मितचारुतरामपरामनुगच्छति वामाम् ॥ ७॥ हरिरिह var -   परां
श्रीजयदेवकवेरिदमद्भुतकेशवकेलिरहस्यम् ।
वृन्दावनविपिने ललितं वितनोतु शुभानि यशस्यम् ॥ ८॥ हरिरिह
विश्वेषामनुरञ्जने जनयन्नानन्दमिन्दीवर-
श्रेणीश्यामलकोमलैरुपनयन्नङ्गैरनङ्गोत्सवम् ।
स्वच्छन्दं व्रजसुन्दरीभिरभितः प्रत्यङ्गमालिङ्कितः
शृङ्गारः सखि मूर्तिमानिव मधौ मुग्धो हरिः क्रीडति ॥ ११॥

अद्योत्सङ्गवसद्भुजङ्गकवलक्लेशादिवेशाचलं var -  नित्योसङ्ग
प्रालेयप्लवनेच्छयानुसरति श्रीखण्डशैलानिलः ।
किं च स्निग्धरसालमौलिमुकुलान्यालोक्य हर्षोदया-
दुन्मीलन्ति कुहूः कुहूरिति कलोत्तलाः पिकानां गिरः ॥ १२॥

रासोल्लासभरेणविभ्रमभृतामाभीरवामभ्रुवा-
मभ्यर्णे परिरभ्य निर्भरमुरः प्रेमान्धया राधया ।
साधु त्वद्वदनं सुधामयमिति व्याहृत्य गीतस्तुति-
व्याजादुद्भटचुम्बितस्मितमनोहरी हरिः पातु वः ॥ १३॥

॥ इति श्रीगीतगोविन्दे सामोददामोदरो नाम प्रथमः सर्गः ॥


॥ द्वितीयः सर्गः ॥
॥ अक्लेशकेशवः ॥
विहरति वने राधा साधारणप्रणये हरौ
विगलितनिजोत्कर्षादीर्ष्यावशेन गतान्यतः ।
क्वचिदपि लताकुञ्जे गुञ्जन्मधुव्रतमण्डली-
मुखरशिखरे लीना दीनाप्युवाच रहः सखीम् ॥ १४॥

॥ गीतम् ५ ॥
संचरदधरसुधामधुरध्वनिमुखरितमोहनवंशम् ।
चलितदृगञ्चलचञ्चलमौलिकपोलविलोलवतंसम् ॥

रासे हरिमिह विहितविलासं
स्मरति मनो मम कृतपरिहासम् ॥ १॥

चन्द्रकचारुमयूरशिखण्डकमण्डलवलयितकेशम् ।
प्रचुरपुरन्दरधनुरनुरञ्जितमेदुरमुदिरसुवेशम् ॥ २॥ रासे हरिमिह
गोपकदम्बनितम्बवतीमुखचुम्बनलम्भितलोभम् ।
बन्धुजीवमधुराधरपल्लवमुल्लसितस्मितशोभम् ॥ ३॥ रासे हरिमिह
विपुलपुलकभुजपल्लववलयितवल्लवयुवतिसहस्रम् ।
करचरणोरसि मणिगणभूषणकिरणविभिन्नतमिस्रम् ॥ ४॥ रासे हरिमिह
जलदपटलचलदिन्दुविनन्दकचन्दनतिलकललाटम् ।
पीनघनस्तनमण्डलमर्दननिर्दयहृदयकपाटम् ॥ ५॥ रासे हरिमिह var -    पीनपयोधरपरिसर
मणिमयमकरमनोहरकुण्डलमण्डितगण्डमुदारम् ।
पीतवसनमनुगतमुनिमनुजसुरासुरवरपरिवारम् ॥ ६॥ रासे हरिमिह
विशदकदम्बतले मिलितं कलिकलुषभयं शमयन्तम् ।
मामपि किमपि तरङ्गदनङ्गदृशा मनसा रमयन्तम् ॥ ७॥ रासे हरिमिह var -   वपुषा
श्रीजयदेवभणितमतिसुन्दरमोहनमधुरिपुरूपम् ।
हरिचरणस्मरणं प्रति सम्प्रति पुण्यवतामनुरूपम् ॥ ८॥ रासे हरिमिह
गणयति गुणग्रामं भ्रामं भ्रमादपि नेहते
वहति च परितोषं दोषं विमुञ्चति दूरतः ।
युवतिषु वलस्तृष्णे कृष्णे विहारिणि मां विना
पुनरपि मनो वामं कामं करोति करोमि किम् ॥ १५॥

॥ गीतम् ६ ॥
निभृतनिकुञ्जगृहं गतया निशि रहसि निलीय वसन्तम् ।
चकितविलोकितसकलदिशा रतिरभसरसेन हसन्तम् ॥

सखि हे केशिमथनमुदारम्
रमय मया सह मदनमनोरथभावितया सविकारम् ॥ १॥

प्रथमसमागमलज्जितया पटुचाटुशतैरनुकूलम् ।
मृदुमधुरस्मितभाषितया शिथिलीकृतजधनदुकूलम् ॥ २॥ सखि हे
किसलयशयननिवेशितया चिरमुरसि ममैव शयानम् ।
कृतपरिरम्भणचुम्बनया परिरभ्य कृताधरपानम् ॥ ३॥ सखि हे
अलसनिमीलितलोचनया पुलकावलिललितकपोलम् ।
श्रमजलसकलकलेवरया वरमदनमदादतिलोलम् ॥ ४॥ सखि हे
कोकिलकलरवकूजितया जितमनसिजतन्त्रविचारम् ।
श्लथकुसुमाकुलकुन्तलया नखलिखितघनस्तनभारम् ॥ ५॥ सखि हे
चरणरणितमणिनूपुरया परिपूरितसुरतवितानम् ।
मुखरविशृङ्खलमेखलया सकचग्रहचुम्बनदानम् ॥ ६॥ सखि हे
रतिसुखसमयरसालसया दरमुकुलितनयनसरोजम् ।
निःसहनिपतिततनुलतया मधुसूदनमुदितमनोजम् ॥ ७॥ सखि हे
श्रीजयदेवभणितमिदमतिशयमधुरिपुनिधुवनशीलम् ।
सुखमुत्कण्ठितगोपवधूकथितं वितनोतु सलीलम् ॥ ८॥  सखि हे var -   राधिकया
हस्तस्रस्तविलासवंशमनृजुभ्रूवल्लिमद्बल्लवी-
वृन्दोत्सारिदृगन्तवीक्षितमतिस्वेदार्द्रगण्डस्थलम् ।
मामुद्वीक्ष्य विलक्षितं स्मितसुधामुग्धाननं कानने
गोविन्दं व्रजसुन्दरीगणवृतं पश्यामि हृष्यामि च ॥ १६॥

दुरालोकस्तोकस्तबकनवकाशोकलतिका-
विकासः कासारोपवनपवनोऽपि व्यथयति ।
अपि भ्राम्यद्भृङ्गीरणितरमणीया न मुकुल-
प्रसूतिश्चूतानां सखि शिखरिणीयं सुखयति ॥ १७॥

साकूतस्मितमाकुलाकुलगलद्धम्मिल्लमुल्लासित-
भ्रूवल्लीकमलीकदर्शितभुजामूलार्द्धपृष्ठस्तनम् ।
गोपीनां निभृतं निरीक्ष्य गमिताकाङ्क्षश्चिरं चिन्तय-
न्नन्तर्मुग्द्धमनोहरो हरतु वः क्लेशं न वः केशवः ॥ १८॥

॥ इति गीतगोविन्दे अक्लेशकेशवो नाम द्वितीयः सर्गः ॥


॥ तृतीयः सर्गः ॥
॥ मुग्धमधुसूदनः ॥
कंसारिरपि संसारवासनाबन्धशृङ्खलाम् ।
राधामाधाय हृदये तत्याज व्रजसुन्दरीः ॥ १९॥

इतस्ततस्तामनुसृत्य राधिका-
मनङ्गबाणव्रणखिन्नमानसः ।
कृतानुतापः स कलिन्दनन्दिनी-
तटान्तकुञ्जे निषसाद माधवः ॥ २०॥

॥ गीतम् ७ ॥
मामियं चलिता विलोक्य वृतं वधूनिचयेन ।
सापराधतया मयापि न वारितातिभयेन ॥

हरिहरि हतादरतया गता सा गता कुपितेव ॥ १॥

किं करिष्यति किं वदिष्यति सा चिरं विरहेण ।
किं धनेन जनेन किं मम जीवनेन गृहेण ॥ २॥ हरिहरि
चिन्तयामि तदाननं कुटिलभ्रु कोपभरेण ।
शोणपद्ममिवोपरि भ्रमताकुलभ्रमरेण ॥ ३॥ हरिहरि
तामहं हृदि संगतामनिशं भृशं रमयामि ।
किं वनेऽनुसरामि तामिह किं वृथा विलपामि ॥ ४॥ हरिहरि
तन्वि खिन्नमसूयया हृदयं तवाकलयामि ।
तन्न वेद्मि कुतो गतासि न तेन तेऽनुनयामि ॥ ५॥ हरिहरि
दृश्यसे पुरतो गतागतमेव ते विदधासि ।
किं पुरेव समम्भ्रमं परिरम्भणं न ददासि ॥ ६॥ हरिहरि
क्षम्यतामपरं कदापि तवेदृशं न करोमि ।
देहि सुन्दरि दर्शनं मम मन्मथेन दुनोमि ॥ ७॥ हरिहरि
वर्णितं जयदेवकेन हरेरिदं प्रवणेन ।
किन्दुबिल्वसमुद्रसम्भवरोहिणीरमणेन ॥ ८॥ हरिहरि
कुवलयदलश्रेणी कण्ठे न सा गरलद्युतिः
हृदि बिसलताहारो नायं भुजङ्गमनायकः ।
मलयजरजो नेदं भस्म प्रियारहिते मयि
प्रहर न हरभ्रान्त्यानङ्ग क्रुधा किमु धावसि ॥ २१॥

पाणौ मा कुरु चूतसायकममुं मा चापमारोपय
क्रीडानिर्जितविश्वमूर्छितजनाघातेन किं पौरुषम् ।
तस्या एव मृगीदृशो मनसिजप्रेङ्खत्कटाक्षाशुग-
श्रेणीजर्जरितं मनागपि मनो नाद्यापि संधुक्षते ॥ २२॥

भ्रूचापे निहितः कटाक्षविशिखो निर्मातु मर्मव्यथां
श्यामात्मा कुटिलः करोतु कबरीभारोऽपि मारोद्यमम् ।
मोहं तावदयं च तन्वि तनुतां बिम्बाधरो रागवान्
सद्वृत्तस्तनमण्डलस्तव कथं प्राणैर्मम क्रीडति ॥ २३॥

तानि स्पर्शसुखानि ते च तरलस्निग्धा दृशोर्विभ्रमा-
स्तद्वक्त्राम्बुजसौरभं स च सुधास्यन्तिर्गिरां वक्रिमा ।
सा बिम्बाधरमाधुरीति विषयासङ्गेऽपि चेन्मानसं
तस्यां लग्नसमाधि हन्त विरहव्याधिः कथं वर्धते ॥ २४॥

भ्रूपल्लवं धनुरपाङ्गतरङ्गितनि var -   भ्रूवल्लरिर्धनु
बाणा गुणः श्रवणपालिरिति स्मरेण ।
अस्यामनङ्गजयजङ्गमदेवतायां
अस्त्राणि निर्जितजगन्ति किमर्पितानि ॥ २५॥

तिर्यक्कण्ठविलोलमौलितरलोत्तंसस्य वंशोच्चलद्-
गीतिस्थानकृतावधानललनालक्षैर्न संलक्षिताः ।
सम्मुग्द्धे मधुसूदनस्य मधुरे राधामुखेन्दौ मृदु-
स्पन्दं कन्दलिताश्चिरं ददतु वः क्षेमं कटाक्षोर्मयः ॥ २६ ॥

॥ इति श्रीगितगोविन्दे मुग्धमधुसूदनो नाम तृतीयः सर्गः ॥


॥ चतुर्थः सर्गः ॥
॥ स्निग्धमधुसूदनः ॥
यमुनातीरवानीरनिकुञ्जे मन्दमास्थितम् ।
प्राह प्रेमभरोद्भ्रान्तं माधवं राधिकासखी ॥ २७॥

॥ गीतम् ८ ॥
निन्दति चन्दनमिन्दुकिरणमनु विन्दति खेदमधीरम् ।
व्यालनिलयमिलनेन गरलमिव कलयति मलयसमीरम् ॥

माधव मनसिजविशिखभयादिव भावनया त्वयि लीना
सा विरहे तव दीना  ॥ १॥

अविरलनिपतितमदनशरादिव भवदवनाय विशालम् ।
स्वहृदयमर्मणी वर्म करोति सजलनलिनीदलजालम् ॥ २॥ सा विरहे तव दीना
कुसुमविशिखशरतल्पमनल्पविलासकलाकमनीयम् ।
व्रतमिव तव परिरम्भसुखाय करोति कुसुमशयनीयम् ॥ ३॥ सा विरहे तव दीना
वहति च गलितविलोचनजलभरमाननकमलमुदारम् ।  var -    विगलितलोचन
विधुमिव विकटविधुन्तुददन्तदलनगलितामृतधारम् ॥ ४॥ सा विरहे तव दीना
विलिखति रहसि कुरङ्गमदेन भवन्तमसमशरभूतम् ।
प्रणमति मकरमधो विनिधाय करे च शरं नवचूतम् ॥ ५॥ सा विरहे तव दीना
प्रतिपदमिदमपि निगतति माधव तव चरणे पतिताहम् ।
त्वयि विमुखे मयि सपदि सुधानिधिरपि तनुते तनुदाहम् ॥ ६॥ सा विरहे तव दीना
ध्यानलयेन पुरः परिकल्प्य भवन्तमतीव दुरापम् ।
विलपति हसति विषीदति रोदिति चञ्चति मुञ्चति तापम् ॥ ७॥ सा विरहे तव दीना
श्रीजयदेवभणितमिदमधिकं यदि मनसा नटनीयम् ।
हरिविरहाकुलबल्लवयुवतिसखीवचनं पठनीयम् ॥ ८॥ सा विरहे तव दीना
आवासो विपिनायते प्रियसखीमालापि जालायते
तापोऽपि श्वसितेन दावदहनज्वालाकलापायते ।
सापि त्वद्विरहेण हन्त हरिणीरूपायते हा कथं
कन्दर्पोऽपि यमायते विरचयञ्शार्दूलविक्रीडितम् ॥ २८॥

॥ गीतम् ९ ॥
स्तनविनिहितमपि हारमुदारम् ।
सा मनुते कृशतनुरतिभारम् ॥

राधिका विरहे तव केशव ॥ १॥

सरसमसृणमपि मलयजपङ्कम् ।
पश्यति विषमिव वपुषि सशङ्कम् ॥ २॥ राधिका
श्वसितपवनमनुपमपरिणाहम् ।
मदनदहनमिव वहति सदाहम् ॥ ३॥ राधिका
दिशि दिशि किरति सजलकणजालम् ।
नयननलिनमिव विगलितनालम् ॥ ४॥ राधिका
नयनविषयमपि किसलयतल्पम् ।
कलयति विहितहुताशविकल्पम् ॥ ५॥ राधिका
त्यजति न पाणितलेन कपोलम् ।
बालशशिनमिव सायमलोलम् ॥ ६॥ राधिका
हरिरिति हरिरिति जपति सकामम् ।
विरहविहितमरणेन निकामम् ॥ ७॥ राधिका
श्रीजयदेवभणितमिति गीतम् ।
सुखयतु केशवपदमुपनीतम् ॥ ८॥ राधिका
सा रोमाञ्चति सीत्करोति विलपत्युत्क्म्पते ताम्यति
ध्यायत्युद्भ्रमति प्रमीलति पतत्युद्याति मूर्च्छत्यपि ।
एतावत्यतनुज्वरे वरतनुर्जीवेन्न किं ते रसात्
स्वर्वैद्यप्रतिम प्रसीदसि यदि त्यक्तोऽन्यथा नान्तकः ॥ २९॥ var -   त्यक्तान्यथान्यत्परम्
स्मरातुरां दैवतवैद्यहृद्य
त्वदङ्गसङ्गामृतमात्रसाध्याम् ।
विमुक्तबाधां कुरुषे न राधा-
मुपेन्द्र वज्रादपि दारुणोऽसि ॥ ३१॥

कन्दर्पज्वरसंज्वरस्तुरतनोराश्चर्यमस्याश्चिरं var -   सज्ज्वरातुरतनोरथ्यर्थमस्याश्चिरं
चेतश्चन्दनचन्द्रमःकमलिनीचिन्तासु संताम्यति ।
किंतु क्लान्तिवशेन शीतलतनुं त्वामेकमेव प्रियं
ध्यायन्ती रहसि स्थिता कथमपि क्षीणा क्षणं प्राणिति ॥ २९॥

क्षणमपि विरहः पुरा न सेहे
नयननिमीलनखिन्नया यया ते ।
श्वसिति कथमसौ रसालशाखां
चिरविरहेण विलोक्य पुष्पिताग्राम् ॥ ३२॥ var -   विरहेऽपि
वृष्टिव्याकुलगोकुलावनरसादुद्धृत्य गोवर्धनं
बिभ्रद्वल्लववल्लभाभिरधिकानन्दाच्चिरं चुम्बितः ।
दर्पेणेव तदर्पिताधरतटीसिन्दूरमुद्राङ्गितो
बाहुर्गोपपतेस्तनोतु भवतां श्रेयांसि कंसद्विषः ॥ ३३ ॥

॥ इति गीतगोविन्दे स्निग्धमाधवो नाम चतुर्थः सर्गः ॥


॥ पञ्चमः सर्गः ॥
॥ साकांक्षपुण्डरीकाक्षः ॥
अहमिह निवसामि याहि राधामनुनय मद्वचनेन चानयेथाः ।
इति मधुरिपुणा सखी नियुक्ता स्वयमिदमेत्य पुनर्जगाद राधाम् ॥ ३४॥

॥ गीतम् १० ॥
वहति मलयसमीरे मदनमुपनिधाय ।
स्फुटति कुसुमनिकरे विरहिहृदयदलनाय ॥

तव विरहे वनमाली सखि सीदति ॥ १॥

दहति शिशिरमयूखे मरणमनुकरोति ।
पतति मदनविशिखे विलपति विकलतरोऽति ॥ २॥ तव विरहे
ध्वनति मधुपसमूहे श्रवणमपि दधाति ।
मनसि वलितविरहे  निशि निशि रुजमुपयाति ॥ ३॥ तव विरहे
वसति विपिनविताने त्यजति ललितधाम ।
लुठति धरणिशयने बहु विलपति तव नाम ॥ ४॥ तव विरहे
रणति पिकसमुदाये प्रतिदिशमनुयाति ।
हसति मनुजनिचये विरहमपलपति नेति ॥ ५॥   तव विरहे
स्फुरति कलरवरावे स्मरति भणितमेव ।
तव रतिसुखविभवे बहुगणयति गुणमतीव ॥ ६॥ तव विरहे
त्वदभिदशुभदमासं वदतु नरि शृणोति ।
तमपि जपति सरसं परयुवतिषु न रतिमुपैति ॥ ७॥  तव विरहे
भणति कविजयदेवे विरहिविलसितेन ।
मनसि रभसविभवे हरिरुदयतु सुकृतेन ॥ ८॥ तव विरहे
पूर्वं यत्र समं त्वया रतिपतेरासादितः सिद्धय-
स्तस्मिन्नेव निकुञ्जमन्मथमहातीर्थे पुनर्माधवः ।
ध्यायंस्त्वामनिशं जपन्नपि तवैवालापमन्त्रावलीं
भूयस्त्वत्कुचकुम्भनिर्भरपरीरम्भामृतं वाञ्छति ॥ ३५॥

॥ गीतम् ११ ॥
रतिसुखसारे गतमभिसारे मदनमनोहरवेशम् ।
न कुरु नितम्बिनि गमनविलम्बनमनुसर तं हृदयेशम् ॥

धीरसमीरे यमुनातीरे वसति वने वनमाली
गोपीपीनपयोधारमर्दनचञ्चलकरयुगशाली  ॥ १॥

नाम समेतं कृतसंकेतं वादयते मृदुवेणुम् ।
बहु मनुते ननु ते तनुसंगतपवनचलितमपि रेणुम् ॥ २॥ धीरसमीरे var -   तनु
पतति पतत्रे विचलति पत्रे शङ्कितभवदुपयानम् ।
रचयति शयनं सचकितनयनं पश्यति तव पन्थानम् ॥ ३॥ धीरसमीरे
मुखरमधीरं त्यज मञ्जीरं रिपुमिव केलिसुलोलम् ।
चल सखि कुञ्जं सतिमिरपुञ्जं शीलय नीलनिचोलम् ॥ ४॥ धीरसमीरे
उरसि मुरारेरुपहितहारे घन इव तरलबलाके ।
तडिदिव पीते रतिविपरीते राजसि सुकृतविपाके ॥ ५॥ धीरसमीरे
विगलितवसनं परिहृतरसनं घटय जघनमपिधानम् ।
किसलयशयने पङ्कजनयने निधिमिव हर्षनिदानम् ॥ ६॥ धीरसमीरे
हरिरभिमानी रजनिरिदानीमियमपि याति विरामम् ।
कुरु मम वचनं सत्वररचनं पूरय मधुरिपुकामम् ॥ ७॥ धीरसमीरे
श्रीजयदेवे कृतहरिसेवे भणति परमरमणीयम् ।
प्रमुदितहृदयं हरिमतिसदयं नमत सुकृतकमनीयम् ॥ ८॥ धीरसमीरे
विकिरति मुहुः श्वासानाशाः पुरो मुहुरीक्षते
प्रविशति मुहुः कुञ्जं गुञ्जन्मुहुर्बहु ताम्यति ।
रचयति मुहुः शय्यां पर्याकुलं मुहुरीक्षते
मदनकदनक्लान्तः कान्ते प्रियस्तव वर्तते ॥ ३६॥

त्वद्वाम्येन समं समग्रमधुना तिग्मांशुरस्तं गतो
गोविन्दस्य मनोरथेन च समं प्राप्तं तमः सान्द्रताम् ।
कोकानां करुणस्वनेन सदृशी दीर्घा मदभ्यर्थना
तन्मुग्धे विफलं विलम्बनमसौ रम्योऽभिसारक्षणः ॥ ३७॥

आश्लेषादनु चुम्बनादनु नखोल्लेखादनु स्वान्तज-
प्रोद्बोधादनु सम्भ्रमादनु रतारम्भादनु प्रीतयोः ।
अन्यार्थं गतयोर्भ्रमान्मिलितयोः सम्भाषणैर्जानतो-
र्दम्पत्योरिह को न को न तमसि व्रीडाविमिश्रो रसः ॥ ३८।
सभयचकितं विन्यस्यन्तीं दृशौ तिमिरे पथि
प्रतितरु मुहुः स्थित्वा मन्दं पदानि वितन्वतीम् ।
कथमपि रहः प्राप्तामङ्गैरनङ्गतरङ्गिभिः
सुमुखि सुभगः पश्यन्स त्वामुपैतु ऋतार्थताम् ॥ ३९॥

राधामुग्द्धमुखारविन्दमधुपस्त्रैलोक्यमौलिस्थली
नेपथ्योचितनीलरत्नमवनीभारावतारक्षमः ।
स्वच्छन्दं व्रजसुन्दरीजनमनस्तोषप्रदोषश्चिरं
कंसध्वंसनधूमकेतुरवतु त्वां देवकीनन्दनः ॥ ४०॥

॥ इति श्रीगीतगोविन्देऽभिसारिकवर्णने साकाङ्क्षपुण्डरीकाक्षो नाम
पञ्चमः सर्गः ॥


॥ षष्ठः सर्गः ॥
॥ कुण्ठवैकुण्ठः ॥
अथ तां गन्तुमशक्तां चिरमनुरक्तां लतागृहे दृष्ट्वा ।
तच्चरितं गोविन्दे मनसिजमन्दे सखी प्राह ॥ ४१॥

॥ गीतम् १२ ॥
पश्यति दिशि दिशि रहसि भवन्तम् ।
तदधरमधुरमधूनि पिबन्तम् ॥ var -   त्वदधर
नाथ हरे (जय नाथ हरे) सीदति राधा वासगृहे ॥ १॥

त्वदभिसरणरभसेन वलन्ती ।
पतति पदानि कियन्ति चलन्ती ॥ २॥ नाथ हरे
विहितविशदबिसकिसलयवलया ।
जीवति परमिह तव रतिकलया ॥ ३॥ नाथ हरे
मुहुरवलोकितमण्डनलीला ।
मधुरिपुरहमिति भावनशीला ॥ ४॥ नाथ हरे
त्वरितमुपैति न कथमभिसारम् ।
हरिरिति वदति सखीमनुवारम् ॥ ५॥ नाथ हरे
श्लिष्यति चुम्बति जलधरकल्पम् ।
हरिरुपगत इति तिमिरमनल्पम् ॥ ६॥ नाथ हरे
भवति विलम्बिनि विगलितलज्जा ।
विलपति रोदिति वासकसज्जा ॥ ७॥ नाथ हरे
श्रीजयदेवकवेरिदमुदितम् ।
रसिकजनं तनुतामतिमुदितम् ॥ ८॥ नाथ हरे
विपुलपुलकपालिः स्फीतसीत्कारमन्त-
र्जनितजडिमकाकुव्याकुलं व्याहरन्ती ।
तव कितव विधायामन्दकन्दर्पचिन्तां var -   विधत्ते मन्द
रसजलधिनिमग्ना ध्यानलग्ना मृगाक्षी ॥ ४२॥

अङ्गेष्वाभरणं करोति बहुशः पत्रेऽपि संचारिणि
प्राप्तं त्वां परिशङ्कते वितनुते शय्यां चिरं ध्यायति ।
इत्याकल्पविकल्पतल्परचनासंकल्पलीलाशत-
व्यासक्तापि विना त्वया वरतनुर्नैषा निशां नेष्यति ॥ ४३॥

किं विश्राम्यसि कृष्णभोगिभवने भाण्डीरभूमीरुहि
भ्रातर्याहि न दृष्टिगोचरमितः सानन्दनन्दास्पदम् ।
राधाया वचनं तदध्वगमुखान्नन्दान्तिके गोपतो
गोविन्दस्य जयति सायमतिथिप्राशस्त्यगर्भा गिरः ॥ ४४ ॥

॥ इति गीतगोविन्दे वासकसज्जावर्णने कुण्ठवैकुण्ठो नाम षष्टः सर्गः ॥


॥  सप्तमः सर्गः ॥
॥ नागरनारायणः ॥
अत्रान्तरे च कुलटाकुलवर्त्मपात-
संजातपातक इव स्फुटलाञ्छनश्रीः ।
वृन्दावनान्तरमदीपयदंशुजालै-
र्दिक्सुन्दरीवदनचन्दनबिन्दुरिन्दुः ॥ ४५॥

प्रसरति शशधरबिम्बे विहितविलम्बे च माधवे विधुरा ।
विरचितविविधविलापं सा परितापं चकारोच्चैः ॥ ४६॥

॥ गीतम् १३ ॥
कथितसमयेऽपि हरिरहह न ययौ वनम् ।
मम विफलमिदममलरूपमपि यौवनम् ॥

यामि हे कमिह शरणं सखीजनवचनवञ्चिता ॥ १॥

यदनुगमनाय निशि गहनमपि शीलितम् ।
तेन मम हृदयमिदमसमशरकीलितम् ॥ २॥ यामि हे
मम मरणमेव वरमतिवितथकेतना ।
किमिह विषहामि विरहानलमचेतना ॥ ३॥ यामि हे
मामहह विधुरयति मधुरमधुयामिनी ।
कापि हरिमनुभवति कृतसुकृतकामिनी ॥ ४॥ यामि हे
अहह कलयामि वलयादिमणीभूषणम् ।
हरिविरहदहनवहनेन बहुदूषणम् ॥ ५॥ यामि हे
कुसुमसुकुमारतनुमतनुशरलीलया ।
स्रगपि हृदि हन्ति मामतिविषमशीलया ॥ ६॥ यामि हे
अहमिह निवसामि न गणितवनवेतसा ।
स्मरति मधुसूदनो मामपि न चेतसा ॥ ७॥ यामि हे
हरिचरणशरणजयदेवकविभारती ।
वसतु हृदि युवतिरिव कोमलकलावती ॥ ८॥ यामि हे
तत्किं कामपि कामिनीमभिसृतः किं वा कलाकेलिभि-
र्बद्धो बन्धुभिरन्धकारिणि वनोपान्ते किमु भ्राम्यति ।
कान्तः क्लान्तमना मनागपि पथि प्रस्थातुमेवाक्षमः
संकेतीकृतमञ्जुवञ्जुललताकुञ्जेऽपि यन्नागतः ॥ ४७॥

अथागतं माधवमन्तरेण
सखीमियं वीक्ष्य विषादमूकाम् ।
विशङ्कमना रमितं कयापि
जनार्दनं दृष्टवदेतदाह ॥ ४८॥

॥ गीतम् १४ ॥
स्मरसमरोचितविरचितवेशा ।
गलितकुसुमदरविलुलितकेशा ॥

कापि मधुरिपुणा विलसति युवतिरधिकगुणा ॥ १॥

हरिपरिरम्भणवलितविकारा ।
कुचकलशोपरि तरलितहारा ॥ २॥ कापि मधुरिपुणा
विचलदलकललिताननचन्द्रा ।
तदधरपानरभसकृततन्द्रा ॥ ३॥ कापि मधुरिपुणा
चञ्चलकुण्डलदलितकपोला ।
मुखरितरशनजघनगलितलोला ॥ ४॥ कापि मधुरिपुणा
दयितविलोकितलज्जितहसिता ।
बहुविधकूजितरतिरसरसिता ॥ ५॥ कापि मधुरिपुणा
विपुलपुलकपृथुवेपथुभङ्गा ।
श्वसितनिमीलितविकसदनङ्गा ॥ ६॥ कापि मधुरिपुणा
श्रमजलकणभरसुभगशरीरा ।
परिपतितोरसि रतिरणधीरा ॥ ७॥ कापि मधुरिपुणा
श्रीजयदेवभणितहरिरमितम् ।
कलिकलुषं जनयतु परिशमितम् ॥ ८॥ कापि मधुरिपुणा
विरहपाण्डुमुरारिमुखाम्बुज-
द्युतिरियं तिरयन्नपि वेदनाम्  । var  चेतनाम्
विधुरतीव तनोति मनोभुवः
सुहृदये हृदये मदनव्यथाम् ॥ ४९।
॥ गीतम् १५ ॥
समुदितमदने रमणीवदने चुम्बनवलिताधरे ।
मृगमदतिलकं लिखति सपुलकं मृगमिव रजनीकरे ॥

रमते यमुनापुलिनवने विजयी मुरारिरधुना ॥ १॥

घनचयरुचिरे रचयति चिकुरे तरलिततरुणानने ।
कुरबककुसुमं चपलासुषमं रतिपतिमृगकानने ॥ २॥ रमते
घटयति सुघने कुचयुगगगने मृगमदरुचिरूषिते ।
मणिसरममलं तारकपटलं नखपदशशिभूषिते ॥ ३॥ रमते
जितबिसशकले मृदुभुजयुगले करतलनलिनीदले ।
मरकतवलयं मधुकरनिचयं वितरति हिमशीतले ॥ ४॥ रमते
रतिगृहजघने विपुलापघने मनसिजकनकासने ।
मणिमयरसनं तोरणहसनं विकिरति कृतवासने ॥ ५॥ रमते
चरणकिसलये कमलानिलये नखमणिगणपूजिते ।
बहिरपवरणं यावकभरणं जनयति हृदि योजिते ॥ ६॥ रमते
रमयति सुदृशं कामपि सुभृशं खलहलधरसोदरे ।
किमफलमवसं चिरमिह विरसं वद सखि विटपोदरे ॥ ७॥ रमते
इह रसभणने कृतहरिगुणने मधुरिपुपदसेवके ।
कलियुगचरितं न वसतु दुरितं कविनृपजयदेवके ॥ ८॥ रमते
नायातः सखि निर्दयो यदि शठस्त्वं दूति किं दूयसे
स्वच्छन्दं बहुवल्लभः स रमते किं तत्र ते दूषणम् ।
पश्याद्य प्रियसङ्गमाय दयितस्याकृष्यमाणं गुणै-
रुत्कण्ठार्तिभरादिव स्फुटदिदं चेतः स्वयं यास्यति ॥ ५०॥

॥ गीतम् १६ ॥
अनिलतरलकुवलयनयनेन ।
तपति न सा किसलयशयनेन ॥

सखि या रमिता वनमालिना ॥ १॥

विकसितसरसिजललितमुखेन ।
स्फुटति न सा मनसिजविशिखेन ॥ २॥ सखि या
अमृतमधुरमृदुतरवचनेन ।
ज्वलति न सा मलयजपवनेन ॥ ३॥ सखि या
स्थलजलरुहरुचिकरचरणेन ।
लुठति न सा हिमकरकिरणेन ॥ ४॥ सखि या
सजलजलदसमुदयरुचिरेण ।
दलति न सा हृदि विहरभरेण ॥ ५॥  सखि या  var -   चिरविरहेण
कनकनिकषरुचिशुचिवसनेन ।
श्वसिति न सा परिजनहसनेन ॥ ६॥ सखि या
सकलभुवनजनवरतरुणेन ।
वहति न सा रुजमतिकरुणेन ॥ ७॥ सखि या
श्रीजयदेवभणितवचनेन ।
प्रविशतु हरिरपि हृदयमनेन ॥ ८॥ सखि या
मनोभवानन्दन चन्दनानिल
प्रसीद रे दक्षिण मुञ्च वामताम् ।
क्षणं जगत्प्राण विधाय माधवं
पुरो मम प्राणहरो भविष्यसि ॥ ५१॥

रिपुरिव सखीसंवासोऽयं शिखीव हिमानिलो
विषमिव सुधारश्मिर्यस्मिन्दुनोति मनोगते ।
हृदयमदये तस्मिन्नेवं पुनर्वलते बलात्
कुवलयदृशां वामः कामो निकामनिरङ्कुशः ॥ ५२॥

बाधां विधेहि मलयानिल पञ्चबाण
प्राणान्गृहाण न गृहं पुनराश्रयिष्ये ।
किं ते कृतान्तभगिनि क्षमया तरङ्गै-
रङ्गानि सिञ्च मम शाम्यतु देहदाहः ॥ ५३॥

प्रातर्नीलनिचोलमच्युतमुरस्संवीतपीताम्बरं
राधायाश्चकितं विलोक्य हसति स्वैरं सखीमण्डले ।
व्रीलाचञ्चलमञ्चलं नयनयोराधाय राधानने
गूढं स्मेरमुखोऽयमस्तु जगदानन्दाय नन्दात्मजः ॥ ५४॥

॥ इति गीतगोविन्दे विप्रलब्धावर्णने नागनारायणो नाम सप्तमः सर्गः ॥


॥ अष्टमः सर्गः ॥
॥ विलक्ष्यलक्ष्मीपतिः ॥
अथ कथमपि यामिनीं विनीय
स्मरशरजर्जरितापि सा प्रभाते ।
अनुनयवचनं वदन्तमग्रे
प्रणतमपि प्रियमाह साभ्यसूयम् ॥ ५५॥

॥ गीतम् १७ ॥
रजनिजनितगुरुजागररागकषायितमलसनिवेशम् ।
वहति नयनमनुरागमिव स्फुटमुदितरसाभिनिवेशम् ॥

हरिहरि याहि माधव याहि केशव मा वद कैतववादं
तामनुसर सरसीरुहलोचन या तव हरति विषादम् ॥ १॥

कज्जलमलिनविलोचनचुम्बनविरचितनीलिमरूपम् ।
दशनवसनमरुणं तव कृष्ण तनोति तनोरनुरूपम् ॥ २॥ याहि माधव
वपुरनुहरति तव स्मरसङ्गरखरनखरक्षतरेखम् ।
मरकतशकलकलितकलधौतलिपिरेव रतिजयलेखम् ॥ ३॥ याहि माधव
चरणकमलगलदलक्तकसिक्तमिदं तव हृदयमुदारम् ।
दर्शयतीव बहिर्मदनद्रुमनवकिसलयपरिवारम् ॥ ४॥ याहि माधव
दशनपदं भवदधरगतं मम जनयति चेतसि खेदम् ।
कथयति कथमधुनापि मया सह तव वपुरेतदभेदम् ॥ ५॥ याहि माधव
बहिरिव मलिनतरं तव कृष्ण मनोऽपि भविष्यति नूनम् ।
कथमथ वञ्चयसे जनमनुगतमसमशरज्वरदूनम् ॥ ६॥ याहि माधव
भ्रमति भवानबलाकवलाय वनेषु किमत्र विचित्रम् ।
प्रथयति पूतनिकैव वधूवधनिर्दयबालचरित्रम् ॥ ७॥ याहि माधव
श्रीजयदेवभणितरतिवञ्चितखण्डितयुवतिविलापम् ।
शृणुत सुधामधुरं विबुधा विबुधालयतोऽपि दुरापम् ॥ ८॥ याहि माधव
तदेवं पश्यन्त्याः प्रसरदनुरागं बहिरिव
प्रियापादालक्तच्छुरितमरुणच्छायहृदयम् ।
ममाद्य प्रख्यातप्रणयभरभङ्गेन कितव
त्वदालोकः शोकादपि किमपि लज्जां जनयति ॥ ५६॥

अन्तर्मोहनमौलिघूर्णनचलन्मन्दारविस्रंसनः
स्तब्धाकर्षणलोचनोत्सवमहामन्त्रः कुरङ्गीदृशाम् ।
दृप्यद्दानवदूयमानदिविषद्दूर्वारदुर्वेदना-
द्ध्वंसः कंसरिपोः प्ररोपयतु वः श्रेयांसि वंशीरवः ॥ ५७॥

इति गीतगोविन्दे खण्डितावर्णने विलक्ष्यलक्ष्मीपतिर्नाम अष्ठमः सर्गः ॥


॥ नवमः सर्गः ॥
॥ मन्दमुकुन्दः ॥
तामथ मन्मथखिन्नां
रतिरसभिन्नां विषादसम्पन्नाम् ।
var -    अथ तां मन्मथखिन्नां रतिरसभिन्नां विवादसम्पन्नाम्
अनुचिन्तितहरिचरितां
कलहान्तरितामुवाच सखी ॥ ५८॥

॥ गीतम् १८ ॥
हरिरभिसरति वहति मधुपवने ।
किमपरमधिकसुखं सखि भुवने ॥

माधवे मा कुरु मानिनि मानमये  ॥ १॥

तालफलादपि गुरुमतिसरसम् ।
किं विफलीकुरुषे कुचकलशम् ॥ २॥ माधवे
कति न कथितमिदमनुपदमचिरम् ।
मा परिहर हरिमतिशयरुचिरम् ॥ ३॥ माधवे
किमिति विषीदसि रोदिषि विकला ।
विहसति युवतिसभा तव सकला ॥ ४॥ माधवे
मृदुनलिनीदलशीतलशयने ।
हरिमवलोकय सफलय नयने ॥ ५॥ माधवे
जनयसि मनसि किमिति गुरुखेदम् ।
शृणु मम वचनमनीहितभेदम् ॥ ६॥ माधवे
हरिरुपयातु वदतु बहुमधुरम् ।
किमिति करोषि हृदयमतिविधुरम् ॥ ७॥ माधवे
श्रीजयदेवभणितमतिललितम् ।
सुखयतु रसिकजनं हरिचरितम् ॥ ८॥ माधवे
स्निग्धे यत्परुषासि यत्प्रणमति स्तब्धासि यद्रागिणि
द्वेषस्थासि यदुन्मुखे विमुखतां यातासि तस्मिन्प्रिये ।
तद्युक्तं विपरीतकारिणि तव श्रीखण्डचर्चा विषं var -   युक्तं तद्
शीतांशुस्तपनो हिमं हुतवहः क्रीडामुदो यातनाः ॥ ५९॥

सान्द्रानन्दपुरन्दरादिदिविषद्वृन्दैरमन्दादरा-
दानम्रैर्मकुटेन्द्रनीलमणिभिः सन्दर्शितेन्दिन्दिरम् ।
स्वच्छन्दं मकरन्दसुन्दरगलन्मन्दाकिनीमेदुरं
श्रीगोविन्दपदारविन्दमशुभस्कन्दाय वन्दामहे ॥ ६०॥

॥ इति गीतगोविन्दे कलहान्तरितावर्णने मन्दमुकुन्दो नाम नवमः सर्गः ॥


॥ दशमः सर्गः ॥
॥ चतुरचतुर्भुजः ॥
अत्रान्तरे मसृणरोषवशामसीम-
निःश्वासनिःसहमुखीं सुमुखीमुपेत्य । var -   समुपेत्य राधाम्
सव्रीडमीक्षितसखीवदनां दिनान्ते
सानन्दगद्गदपदं हरिरित्युवाच ॥ ६१॥ var -   विदं
॥ गीतम् १९ ॥
वदसि यदि किंचिदपि दन्तरुचिकौमुदी
हरति दरतिमिरमतिघोरम् ।
स्फुरदधरसीधवे तव वदनचन्द्रमा
रोचयति लोचनचकोरम् ॥

प्रिये चारुशीले मुञ्च मयि मानमनिदानं
सपदि मदनानलो दहति मम मानसं
देहि मुखकमलमधुपानम् ॥ १॥

सत्यमेवासि यदि सुदति मयि कोपिनी
देहि खरनखरशरघातम् ।
घटय भुजबन्धनं जनय रदखण्डनं
येन वा भवति सुखजातम् ॥ २॥ प्रिये चारुशीले
त्वमसि मम भूषणं त्वमसि मम जीवनं
त्वमसि मम भवजलधिरत्नम् ।
भवतु भवतीह मयि सततमनोरोधिनी
तत्र मम हृदयमतियत्नम् ॥ ३॥ प्रिये चारुशीले
नीलनलिनाभमपि तन्वि तव लोचनं
धारयति कोकनदरूपम् ।
कुसुमशरबाणभावेन यदि रञ्जयसि
कृष्णमिदमेतदनुरूपम् ॥ ४॥ प्रिये चारुशीले
स्फुरतु कुचकुम्भयोरुपरि मणिमञ्जरी
रञ्जयतु तव हृदयदेशम् ।
रसतु रशनापि तव घनजघनमण्डले
घोषयतु मन्मथनिदेशम् ॥ ५॥ प्रिये चारुशीले
स्थलकमलगञ्जनं मम हृदयरञ्जनं
जनितरतिरङ्गपरभागम् ।
भण मसृणवाणि करवाणि पदपङ्कजं var -   चरणद्वयं
सरसलसदलक्तकरागम् ॥ ६॥ प्रिये चारुशीले
स्मरगरलखण्डनं मम शिरसि मण्डनं
देहि पदपल्लवमुदारम् ।
ज्वलति मयि दारुणो मदनकदनारुणो var -   नानलो
हरतु तदुपाहितविकारम् ॥ ७॥ प्रिये चारुशीले
इति चटुलचाटुपटुचारु मुरवैरिणो
राधिकामधि वचनजातम् ।
जयति पद्मावतीरमणजयदेवकवि-
भारतीभणितमितिगीतम् ॥ ८॥ प्रिये चारुशीले
परिहर कृतातङ्के शङ्कां त्वया सततं घन-
स्तनजघनयाक्रान्ते स्वान्ते परानवकाशिनि ।
विशति वितनोरन्यो धन्यो न कोऽपि ममान्तरं
स्तनभरपरीरम्भारम्भे विधेहि विधेयताम् ॥ ६२॥

मुग्धे विधेहि मयि निर्दयदन्तदंश-
दोर्वल्लिबन्धनिबिडस्तनपीडनानि ।
चण्डि त्वमेव मुदमञ्च न पञ्चबाण-
चण्डालकाण्डदलनादसवः प्रयान्तु ॥ ६३॥

व्यथयति वृथा मौनं तन्वि प्रपञ्चय पञ्चमं
तरुणि मधुरालापैस्तापं विनोदय दृष्टिभिः ।
सुमुखि विमुखीभावं तावद्विमुञ्च न मुञ्च मां var -   वञ्चय
स्वयमतिशयस्निग्धो मुग्धे प्रियोऽहमुपस्थितः ॥ ६४॥

बन्धूकद्युतिबान्धवोऽयमधरः स्निग्धो मधूकच्छवि-
र्गण्डश्चण्डि चकास्ति नीलनलिनश्रीमोचनं लोचनम् ।
नासाभ्येति तिलप्रसूनपदवीं कुन्दाभदान्ति प्रिये
प्रायस्त्वन्मुखसेवया विजयते विश्वं स पुष्पायुधः ॥ ६५॥

दृशौ तव मदालसे वदनमिन्दुसन्दीपकं var -   मत्यान्वितं
गतिर्जनमनोरमा विधुतरम्भमूरुद्वयम् ।
रतिस्तव कलावती रुचिरचित्रलेखे भ्रुवा-
वहो विबुधयौवनं वहसि तन्वी पृथ्वीगता ॥ ६६॥

शशिमुखि तव भाति भङ्गुरभ्रूर्युवजनमोहनकरालकालसर्पी ।
तदुदितविषभेषजं त्विहैका त्वदधरशीथुसुधैव भाग्यभोग्या ॥ ६७॥

प्रीतिं वस्तनुतां हरिः कुवलयापीडेन सार्धं रणे var -  सा प्रीतिं तनुतां
राधापीनपयोधरस्मरणकृत्कुम्भेन सम्भेदवान् ।
यत्र स्विद्यति मीलति क्षणमभूत्क्षिप्तद्विपेऽपि क्षणात्
कंसस्याथ बले जितं जितमिति व्यामोहकोलाहलः ॥ ६८॥

var -: last 2 lines
पत्रे बिभ्यति मीलति क्षणमपि क्षिप्रं तदालोकनाद्-
व्यामोहेन जितं जितं जितमिति व्यालोलकोलाहलः ॥

॥ इति श्रीगीतगोविन्दे मानिनीवर्णने चतुरचतुर्भुजो नाम दशमः सर्गः ॥


॥ एकादशः सर्गः ॥
॥ सानन्ददामोदरः ॥
सुचिरमनुनयेन प्रीणयित्वा मृगाक्षीं
गतवति कृतवेशे केशवे कुञ्जशय्याम् ।
रचितरुचिरभूषां दृष्टिमोषे प्रदोषे
स्फुरति निरवसादां कापि राधां जगाद ॥ ६९॥

॥ गीतम् २० ॥
विरचितचाटुवचनरचनं चरणे रचितप्रणिपातम् ।
var -  : विरचितचाटुवचनेन चरणरचितप्रणिपातम्
सम्प्रति मञ्जुलवञ्जुलसीमनि केलिशयनमनुयातम् ॥

मुग्धे मधुमथनमनुगतमनुसर राधिके ॥ १॥

घनजघनस्तनभारभरे दरमन्थरचरणविहारम् ।
मुखरितमणीमञ्जीरमुपैहि विधेहि मरालविकारम् ॥ २॥ मुग्धे
शृणु रमणीयतरं तरुणीजनमोहनमधुरिपुरावम् ।
कुसुमशरासनशासनवेन्दिनि पिकनिकरे भज भावम् ॥ ३॥  मुग्धे  var -   बन्दिनि
अनिलतरलकिसलयनिकरेण करेण लतानिकुरम्बम् ।
प्रेरणमिव करभोरु करोति गतिं प्रतिमुञ्च विलम्बम् ॥ ४॥ मुग्धे
स्फुरितमनङ्गतरङ्गवशादिव सूचितहरिपरिरम्भम् ।
पृच्छ मनोहरहारविमलजलधारममुं कुचकुम्भम् ॥ ५॥ मुग्धे
अधिगतमखिलसखीभिरिदं तव वपुरपि रतिरणसज्जम् ।
चण्डि रणितरशनारवडिण्डिममभिसर सरसमलज्जम् ॥ ६॥ मुग्धे
स्मरशरसुभगनखेन करेण सखीमवलम्ब्य सलीलम् । var -   सखीमवलम्ब्य करेण
चल वलयक्वणीतैरवबोधय हरमपि निजगतिशीलम् ॥ ७॥ मुग्धे
श्रीजयदेवभणितमधरीकृतहारमुदासितवामम् ।
हरिविनिहितमनसामधितिष्ठतु कण्ठतटीमविरामम् ॥ ८॥ मुग्धे
सा मां द्रक्ष्यति वक्ष्यति स्मरकथां प्रत्यङ्गमालिङ्गनैः
प्रीतिं यास्यति रंस्यते सखि समागत्येति चिन्ताकुलः ।
स त्वां पश्यति वेपते पुलकयत्यानन्दति स्विद्यति
प्रत्युद्गच्छति मूर्च्छति स्थिरतमःपुञ्जे निकुञ्जे प्रियः ॥ ७०॥

अक्ष्णोर्निक्षिपदञ्जनं श्रवणयोस्तापिच्छगुच्छावलीं
मूर्ध्नि श्यामसरोजदाम कुचयोः कस्तूरिकापत्रकम् ।
धूर्तानामभिसारसत्वरहृदां विष्वङ्निकुञ्जे सखि
ध्वान्तं नीलनिचोलचारु सुदृशां प्रत्यङ्गमालिङ्गति ॥ ७१॥

काश्मीरगौरवपुषामभिसारिकाणाम्
आबद्धरेखमभितो रुचिमञ्जरीभिः ।
एतत्तमालदलनीलतमं तमिस्रं
तत्प्रेमहेमनिकषोपलतां तनोति ॥ ७२॥

हारावलीतरलकाञ्चनकाञ्चिदाम-
केयूरकङ्कणमणिद्युतिदीपितस्य ।
द्वारे निकुञ्जनिलयस्य हरिं निरीक्ष्य
व्रीडावतीमथ सखी निजगाह राधाम् ॥ ७३॥

॥ गीतम् २१ ॥
मञ्जुतरकुञ्जतलकेलिसदने ।
विलस रतिरभसहसितवदने ॥

प्रविश राधे माधवसमीपमिह ॥ १॥

नवभवदशोकदलशयनसारे ।
विलस कुचकलशतरलहारे ॥ २॥ प्रविश
कुसुमचयरचितशुचिवासगेहे ।
विलस कुसुमसुकुमारदेहे ॥ ३॥ प्रविश
चलमलयवनपवनसुरभिशीते ।
विलस रसवलितललितगीते ॥ ४॥ प्रविश
मधुमुदितमधुपकुलकलितरावे ।
विलस मदनरससरसभावे ॥ ५॥   प्रविश  var -   रभस
मधुरतरपिकनिकरनिनदमुखरे ।
विलस दशनरुचिरुचिरशिखरे ॥ ६॥ प्रविश
वितत बहुवल्लिनवपल्लवघने ।
विलस चिरमलसपीनजघने ॥ ७॥ प्रविश
विहितपद्मावतीसुखसमाजे ।
भणति जयदेवकविराजे ।
कुरु मुरारे मङ्गलशतानि ॥ ८॥ प्रविश
त्वां चित्तेन चिरं वहन्नयमतिश्रान्तो भृशं तापितः
कन्दर्पेण तु पातुमिच्छति सुधासम्बाधबिम्बाधरम् ।
अस्याङ्गं तदलंकुरु क्षणमिह भ्रूक्षेपलक्ष्मीलव-
क्रीते दास इवोपसेवितपदाम्भोजे कुतः सम्भ्रमः ॥ ७४॥

सा ससाध्वससानन्दं गोविन्दे लोललोचना ।
सिञ्जाना मञ्जुमञ्जीरं प्रविवेश निवेशनम् ॥ ७५॥

॥ गीतम् २२ ॥
राधावदनविलोकनविकसितविविधविकारविभङ्गम् ।
जलनिधिमिव विधुमण्डलदर्शनतरलिततुङ्गतरङ्गम् ॥

हरिमेकरसं चिरमभिलषितविलासं
सा ददार्श गुरुहर्षवशंवदवदनमनङ्गनिवासम् ॥ १॥

हारममलतरतारमुरसि दधतं परिरभ्य विदूरम् ।
स्फुटतरफेनकदम्बकरम्बितमिव यमुनाजलपूरम् ॥ २॥ हरिमेकरसं
श्यामलमृदुलकलेवरमण्डलमधिगतगौरदुकूलम् ।
नीलनलिनमिव पीतपरागपटलभरवलयितमूलम् ॥ ३॥ हरिमेकरसं
तरलदृगञ्चलचलनमनोहरवदनजनितरतिरागम् ।
स्फुटकमलोदरखेलितखञ्जनयुगमिव शरदि तडागम् ॥ ४॥ हरिमेकरसं
वदनकमलपरिशीलनमिलितमिहिरसमकुण्डलशोभम् ।
स्मितरुचिरुचिरसमुल्लसिताधरपल्लवकृतरतिलोभम् ॥ ५॥ हरिमेकरसं
शशिकिरणच्छुरितोदरजलधरसुन्दरसकुसुमकेशम् ।
तिमिरोदितविधुमण्दलनिर्मलमलयजतिलकनिवेशम् ॥ ६॥ हरिमेकरसं
विपुलपुलकभरदन्तुरितं रतिकेलिकलाभिरधीरम् ।
मणिगणकिरणसमूहसमुज्ज्वलभूषणसुभगशरीरम् ॥ ७॥ हरिमेकरसं
श्रीजयदेवभणितविभवद्विगुणीकृतभूषणभारम् ।
प्रणमत हृदि सुचिरं विनिधाय हरिं सुकृतोदयसारम् ॥ ८॥ हरिमेकरसं
var -   हृदि  सुचिरं विनिधाय हरिं 
अतिक्रम्यापाङ्गं श्रवणपथपर्यन्तगमन-
प्रयासेनेवाक्ष्णोस्तरलतरतारं पतितयोः ।
इदानीं राधायाः प्रियतमसमालोकसमये
पपात स्वेदाम्बुप्रसर इव हर्षाश्रुनिकरः ॥ ७६॥

भवन्त्यास्तल्पान्तं कृतकपटकण्डूतिपिहित- var - भजन्त्यास्तल्पान्तं
स्मितं याते गेहाद्बहिरवहितालीपरिजने ।
प्रियास्यं पश्यन्त्याः स्मरशरसमाकूलसुभगं var -   स्मरपरवशाकूतसुभगं
सलज्जा लज्जापि व्यगमदिव दूरं मृगदृशः ॥ ७७॥

जयश्रीविन्यस्तैर्महित इव मन्दारकुसुमैः
स्वयं सिन्दूरेण द्विपरणमुदा मुद्रित इव ।
भुजापीडक्रीडाहतकुवलयापीडकरिणः
प्रकीर्णासृग्बिन्दुर्जयति भुजदण्डो मुरजितः ॥ ७८॥

सौन्दर्यैकनिधेरनङ्गललनालावण्यलीलाजुषो
राधाया हृदि पल्वले मनसिजकीडैकरङ्गस्थले ।
रम्योरोजसरोजखेलनरसित्वादात्मनः ख्यापयन्
ध्यातुर्मानसराजहंसनिभतां देयान्मुकुन्दो मुदम् ॥ ७९॥

॥ इति श्रीगीतगोविन्दे राधिकामिलने सानन्ददामोदरो नामैकादशः सर्गः ॥


॥ द्वादशः सर्गः ॥
॥ सुप्रीतपीताम्बरः ॥
गतवति सखीवृन्देऽमन्दत्रपाभरनिर्भर-
स्मरपरवशाकूतस्फीतस्मितस्नपिताधराम् ।
सरसमनसं दृष्ट्वा राधां मुहुर्नवपल्लव-
प्रसवशयने निक्षिप्ताक्षीमुवाच हरिः प्रियाम् ॥ ८०॥

॥ गीतम् २३ ॥
किसलयशयनतले कुरु कामिनि चरणनलिनविनिवेशम् ।
तव पदपल्लववैरिपराभवमिदमनुभवतु सुवेशम् ॥

क्षणमधुना नारायणमनुगतमनुसर राधिके ॥ १॥

करकमलेन करोमि चरणमहमागमितासि विदूरम् ।
क्षणमुपकुरु शयनोपरि मामिव नूपुरमनुगतिशूरम् ॥ २॥ क्षणमधुना
वदनसुधानिधिगलितममृतमिव रचय वचनमनुकूलम् ।
विरहमिवापनयामि पयोधररोधकमुरसि दुकूलम् ॥ ३॥ क्षणमधुना
प्रियपरिरम्भणरभसवलितमिव पुलकितमतिदुरवापम् ।
मदुरसि कुचकलशं विनिवेशय शोषय मनसिजतापम् ॥ ४॥ क्षणमधुना
अधरसुधारसमुपनय भाविनि जीवय मृतमिव दासम् ।
त्वयि विनिहितमनसं विरहानलदग्धवपुषमविलासम् ॥ ५॥ क्षणमधुना
शशिमुखि मुखरय मणिरशनागुणमनुगुणकण्ठनिनादम् ।
श्रुतियुगले पिकरुतविकले मम शमय चिरादवसादम् ॥ ६॥ क्षणमधुना
मामतिविफलरुषा विकलीकृतमवलोकितमधुनेदम् ।
मीलितलज्जितमिव नयनं तव विरम विसृज रतिखेदम् ॥ ७॥क्षणमधुना
श्रीजयदेवभणितमिदमनुपदनिगदितमधुरिपुमोदम् ।
जनयतु रसिकजनेषु मनोरमतिरसभावविनोदम् ॥ ८॥ क्षणमधुना
प्रत्यूहःपुलकाङ्कुरेण निबिडाश्लेषे निमेषेण च
क्रीडाकूतविलोकितेऽधरसुधापाने कथानर्मभिः ।
आनन्दाधिगमेन मन्मथकलायुद्धोऽपि यस्मिन्नभू-
दुद्भूतस्स तयोर्बभूव सुरतारम्भः प्रियं भावुकः ॥ ८१॥

दोर्भ्यां संयमितःपयोधरभरेणापीडितः पाणिजै-
राविद्धो दशनैः क्षताधरपुटः श्रोणीतटेनाहतः ।
हस्तेनानमितः कचेऽधरसुधापानेन सम्मोहितः
कान्तः कामपि तृप्तिमाप तदहो कामस्य वामा गतिः ॥ ८२॥

माराङ्के रतिकेलिसंकुलरणारम्भे तया साहस\-
प्रायं कान्तजयाय किञ्चिदुपरि प्रारम्भि यत्सम्भ्रमात् ।
निष्पन्दा जघनस्थली शिथिलता दोर्वल्लिरुत्कम्पितं
वक्षो मीलितमक्षि पौरुषरसः स्त्रीणां कुतः सिध्यति ॥ ८३॥

तस्याः पाटलपाणिजाङ्कितमुरो निद्रकषाये दृशौ
निर्धूताधारशोणिमा विलुलितस्रस्तस्रजो मूर्धजाः ।
काञ्चीदामदरश्लथाञ्चलमिति प्रातर्निखातैर्दृशो-
रेभिः कामशरैस्तदद्भुतमभूत्पत्युर्मनः कीलितम् ॥ ८४॥

त्वामप्राप्य मयि स्वयंवरपरां क्षीरोदतीरोदरे
शङ्के सुन्दरि कालकूटमपिबन्मूढो मृडानीपतिः ।
इत्थं पूर्वकथाभिरन्यमनसा विक्षिप्य वामाञ्चलं
राधायाः स्तनकोरकोपरि चलन्नेत्रे हरिः पातु वः ॥ ८५॥

व्यालोलः केशपाशास्तरलितमलकैः स्वेदलोलौ कपोलौ
स्पष्टा दष्टाधरश्रीः कुचकलशरुचा हारिता हारयष्टिः ।
काञ्चीकाञ्च्युद्गताशां स्तनजघनपदं पाणिनाऽऽच्छाद्य सद्यः
पश्यन्ती चात्मरूपं तदपि विलुलितं स्रधरेयं धुनोति ॥ ८६॥

ईषन्मीलितदृष्टिमुग्धहसितं सीत्कारधारावशा-
दव्यक्ताकुलकेलिकाकुविकसद्दन्तांशुधौताधरम् ।
श्वासोत्कम्पिपयोधरोपरि परिष्वङ्गात्कुरङ्गीदृशो
var -  : शान्तस्तब्धपयोधरं भृशपरि
हर्षोत्कर्षविमुक्तनिःस्सहतनोर्धन्यो धयत्याननम् ॥ ८७ ॥

अथ कान्तं रतिक्लान्तमपि मण्डनवाञ्छया ।
निजगाद निराबाधा राधा स्वाधीनभर्तृका ॥ ८८॥

var - 
अथ सा निर्गतबाधा राधा स्वाधीनभर्तृका ।
निजगाद रतिक्लान्तां कान्तां मण्डनवाञ्छया ॥

इति सहसा सुप्रीतं सुरतान्ते सा नितान्तखिन्नाङ्गी ।
राधा जगाद सादरमिदमानन्देन गोविन्दम् ॥ ८९॥

॥ गीतम् २४ ॥
कुरु यदुनन्दन चन्दनशिशिरतरेण करेण पयोधरे ।
मृगमदपत्रकमत्र मनोभवमङ्गलकलशसहोदरे ।
निजगाद सा यदुनन्दने क्रीडति हृदयानन्दने ॥ १॥

अलिकुलगञ्जनमञ्जनकं रतिनायकसायकमोचने ।
त्वदधरचुम्बनलम्बितकज्जलमुज्ज्वलय प्रिय लोचने ॥ २॥ निजगाद
नयनकुरङ्गतरङ्गविलासनिरासकरे श्रुतिमण्डले ।
मनसिजपाशविलासधरे शुभवेश निवेशय कुण्डले ॥ ३॥ निजगाद
भ्रमरचयं रचहयन्तमुपरि रुचिरं सुचिरं मम सम्मुखे ।
जितकमले विमले परिकर्मय नर्मजनकमलकं मुखे ॥ ४॥ निजगाद
मृगमदरसवलितं ललितं कुरु तिलकमलिकरजनीकरे ।
विहितकलङ्ककलं कमलानन विश्रमितश्रमशीकरे ॥ ५॥ निजगाद
मम रुचिरे चिकुरे कुरु मानद मनसिजध्वजचामरे ।
रतिगलिते ललिते कुसुमानि शिखण्डिशिखण्डकडामरे ॥ ६॥ निजगाद
सरसघने जघने मम शम्बरदारणवारणकन्दरे ।
मणिरशनावसनाभरणानि शुभाशय वासय सुन्दरे ॥ ७॥ निजगाद
श्रीजयदेववचसि रुचिरे हृदयं सदयं कुरु मण्डने ।
हरिचरणस्मरणामृतनिर्मितकलिकलुषज्वरखण्डने ॥ ८॥ निजगाद
रचय कुचयोः पत्रं चित्रं कुरुष्व कपोलयो-
र्घटय जघने काञ्चीमञ्च स्रजा कबरीभरम् ।
कलय वलयश्रेणीं पाणौ पदे कुरु नूपुरा-
विति निगतितः प्रीतः पीताम्बरोऽपि तथाकरोत् ॥ ९०॥

पर्यङ्गीकृतनागनायकफणश्रेणीमणीनां गणे
सङ्क्रान्तप्रतिबिम्बसङ्कलनया बिभ्रद्वपुर्विक्रियाम् ।
पादाम्भोरुहधारिवारिधिसुतामक्ष्णां दिदृक्षुः शतैः
कायव्यूहविचारयन्नुपचिताकूतो हरिः पातु वः ॥ ९१॥

यन्नित्यैर्वचनैर्विरिञ्चगिरिजाप्राणेशमुख्यैर्मुहुः
नानाकारविचारसारचतुरैर्नाद्यापि निश्चीयते ।
तत्सर्वैर्जयदेवकाव्यघटितैस्सत्सूरिसंशोधितै-
राद्यं वस्तु चकास्तु चेतसि परं सारस्यसीमाजुषाम् ॥ ९२॥

यद्गान्धर्वकलासु कौशलमनुध्यानं च यद्वैष्णवं
यच्छृङ्गारविवेकतत्वरचनाकाव्येषु लीलायितम् ।
तत्सर्वं जयदेवपण्डितकवेः कृष्णैकतानात्मनः
सानन्दाः परिशोधयन्तु सुधियः श्रीगीतगोविन्दतः ॥ ९३॥

साध्वी माध्वीकचिन्ता न भवति भवतः शर्करे कर्कशासि
द्राक्षे द्रक्ष्यन्ति के त्वाममृत मृतमसि क्षीरनीरं रसस्ते ।
क्रन्द कान्ताधर धरणितलं गच्छ यच्छान्तिभावं
यावच्छृङ्गारसारस्वतमिह जयदेवस्य विष्वग्वचांसि ॥ ९४॥

श्रीभोजदेवप्रभवस्य राधादेवीसुतश्रीजयदेवकस्य । var -   रामादेवी
पराशरादिप्रियवर्गकण्ठे श्रीगीतगोविन्दकवित्वमस्तु ॥ ९५॥

॥ इति श्रीजयदेवकृतौ गीतगोविन्दे सुप्रीतपीताम्बरो नाम द्वादशः सर्गः ॥

॥ इति गीतगोविन्दं समाप्तम् ॥



 at the end of Sarga 11, after gItaM 22 

सानन्दं नन्दसूनुर्दिशतु मितपदं सम्मदं मन्दमन्दं
राधामाधाय बाह्वोर्विवरमनुधृढं पीडयन् प्रीतियोगात् ।
तुङ्गौ तस्या उरोजावतनुरवतनोर्निर्गतौ मास्म भूतां
पृष्ठं निर्भिध्य तस्माद्बलिरिति  वलितग्रीवमालोकयन् वः ॥

 at the end of Sarga 12 

साधूनां स्वत एव सम्मतिरिह स्यादेव भक्त्यार्थिनां
आलोच्य ग्रथनश्रमं च विदुषामस्मिन्भवेदादरः ।
ये केचित् परकृत्युपश्रुतिपरास्तानर्थये मत्कृतिं
भूयो वीक्ष्य वदन्त्ववद्यमिति चेत्सा वासना स्तास्यति ॥

इत्थं केलितलैर्विहृत्य यमुनाकूले समं राधया
तद्रोमावलिमौक्तिकावलियुगे वेणीभ्रमं बिभ्रति ।
तत्राह्लादिकुचप्रयोगफलयोर्लिप्सावतोर्हस्तयोर्-
व्यापाराः पुरुषोत्तमस्य ददतु   स्फीतां मुदं सम्पदम् ॥


Encoded and proofread by P. P. Narayanaswami swami at mun.ca
Proofread by PSA Easwaran


% Text title            : jayadevakRita gItagovindaM aShTapadI
% File name             : giitagovindaM.itx
% itxtitle              : gItagovindaM aShTapadI cha (jayadevakRitam)
% engtitle              : jayadevakRita gItagovindaM (aShTapadI)
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Texttype              : pramukha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : P. P. Narayanaswami at swami at math.mun.ca
% Proofread by          : P. P. Narayanaswami at swami at math.mun.ca, PSA Easwaran
% Indexextra            : Paintings
% Latest update         : October 1, 2010, May 10, 2015
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

किशोर कुमार कौशल की 10 कविताएं

1. जाने किस धुन में जीते हैं दफ़्तर आते-जाते लोग।  कैसे-कैसे विष पीते हैं दफ़्तर आते-जाते लोग।।  वेतन के दिन भर जाते हैं इनके बटुए जेब मगर। ...